
अणुं हि जीवं प्रतिदेहभिन्नं, ज्ञातृत्ववन्तं यदनन्तमाहुः ।।1।।
अनादिमायापरियुक्तरूपं, त्वेनं विदुर्वै भगवत्प्रसादात् ।
मुक्तञ्च बद्धं किल बद्धमुक्तं, प्रभेदबाहुल्यमथापि बोध्यम् ।।2।।
अप्राकृतं प्राकृतरूपकञ्च, कालस्वरूपं तदचेतनं मतम् ।
मायाप्रधानादिपदप्रवाच्यं, शुक्लादिभेदाश्च न मे˜पि तत्र ।।3।।
स्वभावतो˜पास्त-समस्तदोष-मशेषकल्याणगुणैक-राशिम् ।
व्यूहांगिनं ब्रहृम परं वरेण्यं, ध्यायेम कृष्णं कमलेक्षणं हरिम् ।।4।।
अंगे तु वामे वृषभानुजां मुदा, विराजमानामनुरूपसौभगाम् ।
सखीसहस्रैः परिसेवितां सदा, स्मरेम देवीं सकलेष्टकामदाम् ।।5।।
उपासनीयं नितरां जनैः सदा, प्रहाणये˜ज्ञानतमो˜नुवृत्तेः ।
सनन्दनाधैर्मु भिस्तथोक्तं, श्रीनारदायाखिलतत्वसाक्षिणे ।।6।।
र्सवं हि विज्ञानमतो यथार्थकं, श्रुतिस्मृतिभ्यो निखिलस्य वस्तुनः ।
ब्रहृमात्मकत्वादिति वेदविन्मतं, त्रिरूपता˜पि श्रुतिसूत्रसाधिता ।।7।।
नान्यागतिः कृष्णपदारविन्दात्, संदृश्यते ब्रहृमशिवादिवन्दितात् ।
भक्तेच्छयोपात्तसुचिन्त्यविग्रहा-दचिंत्यशक्तेरविचिंत्यसाशयात् ।।8।।
कृपास्य दैन्यादियुजि प्रजायते, यया भवेत्प्रेमविशेषलक्षणा ।
भक्तिर्हृयनन्याधिपतेर्महात्मनः सा चोत्तमा साधनरूपिका˜परा ।।9।।
उपास्यरूपं तदुपासकस्य च, कृपाफलं भक्तिरसस्ततः परम् ।
विरोधिना रूपमथैत दाप्तेर्ज्ञेया इमे˜र्था अपि पञ्च साधुभिः ।।10।।
No comments:
Post a Comment